|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.181. अध्यायः 181
Mahabharata - Drona Parva - Chapter Topics
घटोत्कचनिधनात्सर्वेषु शोचत्सु हर्षादात्मानं परिष्वजमानं कृष्णं प्रत्यर्जुनेन हर्षङेतुप्रश्नः॥ 1 ॥ कृष्णेन तदभिधानपूर्वकं कर्णप्रभावप्रशंसनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
`धृतराष्ट्र उवाच। 7-181-0x(4742)(53361)
तस्मिन्हते महामाये महातेजसि राक्षसे।
अमर्षिताः पाण्डवेयाः किमकुर्वन्महारणे॥ 7-181-1(53362)
मर्दिताश्च भृशं युद्धे किमकुर्वन्त सञ्जय॥ 7-181-2(53363)
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकं प्रहारिणः।
सृञ्जयाः सह पाञ्चालैस्तेऽरुर्वन्किं महारणे॥ 7-181-3(53364)
सौमदत्तिवधाद्द्रोणमायत्तं सैन्धवस्य च।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्॥ 7-181-4(53365)
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्।
कथं प्रत्युद्ययुर्द्रोणमजय्यं कुरुसृञ्जयाः॥ 7-181-5(53366)
आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः।
द्रौणिकर्णकृपास्तात ते ह्यकुर्वन्किमाहवे॥ 7-181-6(53367)
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ।
आर्च्छतां मामकान्युद्धे कथं सञ्जय शंस मे॥ 7-181-7(53368)
सिन्धुराजवधेनेमे घटोत्कचवधेन ते।
अमर्षिताश्च सङ्क्रुद्धा रणं चक्रुः कथं युधि'॥ 7-181-8(53369)
सञ्जय उवाच। 7-181-9x(4743)
हैडिम्बिं निहतं दृष्ट्वा विशीर्णमिव पर्वतम्।
बभूवुः पाण्डवाः सर्वे शोकबाष्पाकुलेक्षणाः॥ 7-181-9(53370)
वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः।
ननाद सिंहवन्नादं व्यथयन्निव भारत॥ 7-181-10(53371)
हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान्।
विनद्य च महानादं पर्यष्वजत फल्गुनम्॥ 7-181-11(53372)
स विनद्य महानादमभीशून्सन्नियम्य च।
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः॥ 7-181-12(53373)
ततः परिष्वज्य पुनः पार्थमास्फोट्य चासकृत्।
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः॥ 7-181-13(53374)
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः।
अर्जुनोऽथाब्रवीद्राजन्नातिहृष्टमना इव॥ 7-181-14(53375)
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन।
शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु॥ 7-181-15(53376)
विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम्।
वयं च भृशमुद्विग्ना हेडिम्बेस्तु निपातनात्॥ 7-181-16(53377)
नैतत्कारणमल्पं हि भविष्यति जनार्दन।
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर॥ 7-181-17(53378)
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम।
धैर्यस्य विकृतिं ब्रूहि त्वमद्य मधुसूदन॥ 7-181-18(53379)
समुद्रस्येव संशोषं मेरोरिव विसर्पणम्।
तथैतदद्य मन्येऽहं तव कर्म जनार्दन॥ 7-181-19(53380)
वासुदेव उवाच। 7-181-20x(4744)
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय।
अतीव मनसः सद्यः प्रसादकरमुत्तमम्॥ 7-181-20(53381)
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते।
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय॥ 7-181-21(53382)
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह।
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे॥ 7-181-22(53383)
दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः।
दिष्ट्या सा व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे॥ 7-181-23(53384)
यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः।
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्रणे॥ 7-181-24(53385)
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः।
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्॥ 7-181-25(53386)
गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम्।
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्॥ 7-181-26(53387)
त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः।
विहीनकवचश्चायं कृतः परपुरञ्जयः॥ 7-181-27(53388)
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते।
प्रादाच्छक्राय वै कर्णस्तस्माद्वैकर्तनः स्मृतः॥ 7-181-28(53389)
आशिविष इव क्रुद्वः स्तम्भितो मन्त्रतेजसा।
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः॥ 7-181-29(53390)
यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना।
वासवेन महाबाहो क्षिप्ता याऽसौ घटत्कचे॥ 7-181-30(53391)
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च।
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे॥ 7-181-31(53392)
एवं गतोऽपि शक्योऽयं हतुं नान्येन केनचित्।
ऋते त्वां पुरुषव्याघ्र शपे सत्येन चानघ॥ 7-181-32(53393)
ब्रह्मण्यः सत्यवादी च सपस्वी नियतव्रतः।
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः॥ 7-181-33(53394)
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः।
केसरीव वने नर्दन्मत्तमातङ्गयूथपान्।
विमर्दन्रथशार्दूलान्राजते रणमूर्धनिxxx॥ 7-181-34(53395)
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्।
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्सभिः॥ 7-181-35(53396)
शरजालसहस्रांशुः शरदीव दिxxxx॥ 7-181-36(53397)
तपान्ते जलदो यद्वच्छरधाराः क्षरन्मुहुः।
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्॥ 7-181-37(53398)
त्रिदशैरपि चास्यद्भिः शरवर्षं समन्ततः।
अशक्यस्तदयं जेतुं स्रवद्भिर्मांसशोणितम्॥ 7-181-38(53399)
कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया॥ 7-181-39(53400)
एको हि योगोऽस्य भवेद्वधाय
च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्।
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने
हन्याः पूर्वं त्वं तु संज्ञां विचार्य॥ 7-181-40(53401)
न ह्युद्यतास्त्रं युधि हन्यादजय्य--
मप्येकवीरो बलभित्सवज्रः॥ 7-181-41(53402)
जरासन्धश्चेदिराजो महात्मा
महाबाहुश्चैकलव्यो निषादः।
एकैकशो निहताः सर्व एते
योगैस्तैस्तैस्त्वद्धितार्थं मयैव॥ 7-181-42(53403)
अथापरे निहता राक्षसेन्द्रा
हिडिम्बकिर्मीरबकप्रधानाः।
अलायुधः परचक्रावमर्दी
घटोत्कचश्चोग्रकर्मा तरस्वी॥ ॥ 7-181-43(53404)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकाशीत्यधिकशततमोऽध्यायः॥ 181 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-181-18 धैर्यस्य वैकृतं इति झ. पाठे अस्मत्पक्षक्षयेण तव हर्षोऽस्मद्धैर्यविनाशक इत्यर्थखः॥ 5-181-31 कुण्डलाभ्यां निमाय विनिमयं कृत्वा॥ 5-181-33 वृषा धर्मप्रधानः॥ 5-181-37 पर्जन्यइव वृष्टिमान्। नेता नेतृभिरस्यद्भिः शरवर्षाणि वर्षताम्। सोऽद्य मानुषतामित्यादि क.ट.ड.पाठः॥ 5-181-181 एकाशीत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|